पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे मूर्धास्यनेत्रघ्राणेषु दो:पत्संध्यग्रकेषु च । सशिरोवक्त्रहृदयजठरोरुपदेष्वपि ॥ १७ ॥ हृदाननपरश्वेणाभीत्याख्यवरदेषु च । मुखांसहृदयेषु त्रीन्पदान्पादोरुकुक्षिषु ॥ १८ ॥ ऊर्ध्वधःक्रमतो न्यस्येद्गोलकान्यासमुत्तमम् । पुनस्तत्पुरुषाघोरसद्योवामेशसंज्ञकान् ॥ ४९ ॥ लालाटव्द्यंसजठरहृदयेषु कमान्न्यसेत् । पुनस्तत्प्रतिपत्त्यर्थे जपेन्मन्त्रमिमं सुधीः ॥ ५० ॥ नमोऽस्तु स्थाणुभूताय ज्योतिर्लिङ्गावृतात्मने । चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शंभवे ॥ ५१ ।। कुर्यादनेन मन्त्रेण निजदेहे समाहितः । मन्त्री पुष्पाञ्जलिं सम्यक्त्रिशः पञ्चश एव वा ।। ५२ ॥ पूर्वोक्त एव पीठे प्रागङ्गैर्मूर्तिशक्तिभिस्तदनु।