पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चविंशः पटलः । वृषपालचण्डदुर्गा- गुहनन्दिगणपसैन्यपा: पूज्याः ॥ ५३ ।। अन्या च वासवाद्यैः पुनरुपहारैः क्रमेण भक्तिमता । अभ्यर्चिते हुते च स्तोतव्यः संस्तवेन पुनरीशः ॥ ५४॥ नमो विरिञ्चविष्ण्वीशभेदेन परमात्मने । सर्गसंस्थितिसंहारव्यावृत्तिव्यक्तवृत्तये ॥ ५५ ॥ नमश्चतुर्धा प्रोद्भूतभूतभूतात्मने भुवः । भूरिभारार्तिसंहर्त्रे भूतनाथाय शूलिने ॥ ५६ ।। विश्वग्रासाय विलसत्कालकूटविषाशिने । तत्कलङ्काङ्कितप्रीवनीलकण्ठाय ते नमः ।। ५७ ॥ नमो ललाटनयनप्रोल्लसत्कृष्णवर्त्मने । ध्वस्तस्मरनिरस्ताधियोगिध्याताय शंभवे ॥ ५८ ॥ नमो देहार्धकान्ताय दग्धदक्षाध्वराय च । चतुर्वर्गेष्वभीष्टार्थदायिने मायिनेऽणवे ।। ५९ ॥