पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७७
पञ्चविंशः पटलः ।पटलः ।

 प्रतिपाद्य निजं शरीरमेवं
  प्रजपेदिन्द्रियलक्षकं शिवात्मा ।
 जुहुयाञ्च दशांशतस्तदन्ते
  मधुराक्तैः करवीरजप्रसूनैः ॥ ८ ॥

 अथ वा कुसुमैर्जपासमुत्थैः
  कमलैर्वा विमलेन पायसेन |
 नृपवृक्षभवैः समिद्वरैर्वा
  जुहुयात्साधकसत्तमः समृद्धयै ॥ ९ ॥

 अष्टपत्रगुणवृत्तराशिभि-
  र्वीथिकल्पतरुभिः समावृतम् ।
 मण्डलं प्रतिविधाय शूलिन:
  पीठमन्त्र नवशक्तिभिर्यजेत् ॥ १० ॥

 वामा ज्येष्ठा रौद्री
  काल्या कलबलाद्यविकलिन्यौ ।
 सबलप्रमथिनिसर्वभूत-
  दमन्यौ मनोन्मनीं च यजेत् ॥ ११ ॥