पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६८
प्रपञ्चसारे

 दण्डादिकांस्तथाष्टौ
  च्छिद्रदलेष्वकर्चयीत रक्ताभान् ।
 स्वस्वायुधप्रधानां-
  श्चतुर्भुजाञ्शतमुखानलान्तांश्च ॥ २९ ॥

 दंष्ट्राग्रलग्नवसुधं सजलाम्बुवाह-
  चोरार्चिषं त्वभियजेदधरेऽष्टबाहुम् ।
 चक्रासिबाणसगदादरचर्मशार्ङ्ग-
  शक्त्याख्यकान्दधतमादिमहावराहम् ॥ ३० ॥

 अर्कानलोज्ज्वलमुखं नयनैस्त्रिभिश्च
  वह्निं क्षरन्तमवधूतसटाकलापम् ।
 शुक्लाभभूषमरिशङ्खगदासिबाहुं
  भूयोऽभिराधयतु खे च महानृसिंहम् ॥ ३१ ॥

 अग्रे समग्रबलमुग्रतनुं स्वपक्ष-
  विक्षेपविक्षतविलक्षविपक्षपक्षम् ।
 खण्डाग्रतुण्डममुमण्डजदण्डनाथ.
  माराधयेदथ च पञ्चरगस्य विष्णोः ॥ ३२ ॥