पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे सप्ताहतोऽस्य दहनप्रतिमो ज्वरः स्या- त्रिंशदिनैश्च स परेतपुरं प्रयाति ॥ ५० ।। कलावृतं चाहिपदाभिवेष्टितं समक्षरं यच्छिरसि स्मरेत्सदा । दशाहतोऽसौ प्रति चाट्यते रिपु- र्मृर्ति तथा मण्डलतः प्रयाति ॥ ५१ ॥ सान्तं वायसवर्ण शत्रोः शिरसि स्मरेश्च सप्ताहम् । उत्पाटयति क्षिप्रं मारयतोवाधिवोऽस्य नैशिस्यात् ।। ५२ ॥ सवत्सुधावर्षिणमिन्दुसप्रभं समुज्ज्वलं यच्छिरसि प्रचिन्तयेत् । क्षणात्समाप्यायितसर्वविग्रहो भवेत्स मर्त्यः सुचिरं च जीवति ।। ५३ ।। मध्ये तारं तदनु च मनुं वर्णश: कोणषट्के बाह्ये चाङ्ग लिखतु करके रूप्यके वापि ताम्रे । 1. मारयतेवाधियो.