पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकविंशः पटलः । ज्वरभूतामयविस्मृ- त्यपस्मृतीः शमयितुं नियतचित्तः ॥ ४६॥ आज्याक्तैर्जुहुयाच्छ्रिये सरसिजैर्दूर्वाभिरप्यायुषे मेधायै द्विजभूरुहैश्च कुमुदै: श्वेतैस्तथा वाससे । शुद्धाज्यैः पशवेऽप्युदुम्बरभवैः पुत्राय चाश्वत्थजै- रेकाब्दं विधिवत्सहस्रसमितैरष्टोत्तरं मुक्तये ॥ ४७ ।। चक्रस्य नाभिसंस्थं कृत्वात्मानं मनुं जपेन्मन्त्री। स्वयमेकोऽपि न युद्धे मर्त्यो बहुभिः पराजितो भवति ॥ ४८ ॥ मन्त्री सुनियतचित्त- श्चक्रस्थं भ्रामयेद्धिया ग्रस्तम् । आविश्य सकलमुक्त्वा मुञ्चति दग्धोऽग्निना शुनाभिभुवा ॥४९॥ दीप्तं करालदहनप्रतिमं च चक्रं यस्य स्मरेच्छिरसि कस्यचिदप्रियस्य । 1. स्मृत्वात्मानम्.