पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे द्रव्यैः स दक्षिणान्ता- नभ्यर्च्य विमुच्यते रुजो जन्तुः ॥ १२ ॥ विप्रक्षीरद्रुमत्वङ्गलयजपुरकाश्मीरकुष्ठत्रियामा बिल्वापामार्गराजीतिलतुलसियुगक्रान्तिदूर्वायवार्कैः । लक्ष्मीदेवीकुशागोमयकमलवचारोचनापञ्चगव्यैः सिद्धेऽग्नौ कुम्भसिद्धं मनुजपमहितं मम सर्वार्थदायि ॥ लक्ष्भ्यायुष्करमतुलं पिशाचभूता- पस्मारादिकमचिरेण नाशयेश्व । क्षुद्रादीनपि विविधांस्तथोपसर्गा- नेतस्मान्न परतरा समस्ति रक्षा ।। ४४ ॥ जुहुयाद्गुग्गुलुगुलिका- सहस्रकं साष्टकं च मन्त्रितमः । त्रिदिनं चतुर्दिनं वा सर्वोपद्रवनिवारणं भवति ॥ ४५ ॥ खरमञ्जर्याः समिधा- मयुतं वा मन्त्रवित्तमो जुहुयात् । 1. त्रिधामा.