पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकविंशः पटलः । पाषाणे वा विधिवदथ जप्याथ संस्थापितं त- चक्रं चोरग्रहरिपुभयध्वंसि रक्षाकरं च ॥ ५४॥ स्थाने हृषीकेशविदर्भितं च स्पष्टाक्षरं चाप्यभिजप्तमेतत् । रक्षां ग्रहादेः सततं विधत्ते यन्त्रं सुक्लृप्तं च मनुत्रयेण ।। ५५ ।। अष्टाक्षरान्तरितपादचतुष्ककोष्ठं कोष्ठत्रयालिखितसाध्यसुदर्शनं च । रेखाभिरप्युभयतः श्रुतिश: प्रबर्द्ध तत्सप्तकोष्ठमिति यन्त्रमिदं प्रशस्तम् ॥ ५६ ॥ भूर्जे वा क्षौमपट्टे तनुमसृणतरे कर्पठे वास्य यन्त्रं मन्त्री सम्यग्लिखित्वा पुनरपि गुलिकीकृत्य लाक्षाभिवीतम् । कृत्वा भस्मादिहोमप्रविहितधृतसंपातपातात्तशक्तिं जप्तं सम्यङ्निदध्यात्प्रतिशममुपयान्त्येव सर्वे विकाराः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे एकविंशः पटलः॥