पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१९
विंशः पटलः ।

प्रसीद व्यक्त विस्तीर्ण विस्तीर्णानामणोरणो ।
प्रसीदार्द्रार्द्रजातीनां प्रसीदान्तान्तदायिनाम् ॥ ५८ ॥

गुरोर्गरीयः सर्वेश प्रसीदानन्य देहिनाम् ।
जय माधव मायात्मञ्जय केशव केशिहन ॥ ५९ ॥

जय सुन्दर सौम्यात्मञ्जय शाश्वत शङ्खभृत् ।
जय शार्ङ्गधर श्रीमञ्जय नन्दकनन्दन ॥ ६० ॥

जय चक्रगदापाणे जयाजय्य जनार्दन ।
जय रत्नाकराबन्ध किरीटाक्रान्तमस्तक ॥६१ ॥

जय पक्षिपतिच्छायानिरुद्धार्ककराकर ।
नमस्ते नरकाराते नमस्ते मधुसूदन ॥ ६२ ॥

नमस्ते नलिनापाङ्ग नमस्ते नयनाञ्जन ।
नमः पापहरेशान नम: सर्वभयापह ॥ ६३ ॥

नमः संभृतसर्वात्मनमः संभृतकौस्तुभ ।
नमस्ते नयनातीत नमो विक्रान्तवाक्पथ ॥ ६४ ॥

नमो विभिन्नज्ञेयांश नमः स्मृतिपथातिग ।
नमखिमूर्तिभेदेन सर्गस्थित्यन्तहेतवे ॥ ६५ ॥