पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२० प्रपञ्चसारे

विष्णवे त्रिदशारातिजिष्णवे परमात्मने| चक्रभिन्नारिचक्राय चक्रिणे चक्रबन्धवे||६६||

विश्वाय विश्ववन्द्याय विश्वभूतात्मने नमः| नमोऽस्तु योगिध्येयाय नमोऽस्त्वध्यात्मरूपिणे||६७||

मुक्तिप्रदाय भक्तानां नमस्ते मुक्तिदायिने| मनोवाक्कायचेष्टाः स्युर्ध्यानस्तुतिनमस्क्रियाः||

देवेश कर्म सर्वं मे भवेदाराधनं तव| विषयेष्वपि सङ्गो मे हुतं विष्णो तवाच्युत||६९||

इति हवनजपार्चाभेदतो विष्णुपूजा- निरतहृदयकर्मा यस्तु मन्त्री चिराय| स खलु सकलकामान्प्राप्य हृष्टान्तरात्मा जननमृतिवियुक्तामुत्तमां मुक्तिमेति||७०||

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे विंशः पटलः||