पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे अभिषिच्य यन्त्रकनकं गुरवे प्रददातु संयतः सुमतिः । दुरितापनोदविधये द्युतये यशसे श्रिये च मतिसंयतये ।। ५२ ।। एषां यागविधीना- मेकेन तु पूजयंस्तदवसाने । तत्तन्मूर्तिप्रीत्यै संस्तोतव्योऽनया हरिः स्तुत्या ।। ५३ ।। प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने । तवाङ्घिपङ्कजरजोरागिणीं भक्तिमुत्तमाम ।। ५४ ।। अज प्रसीद भगवन्नमितद्युतिपञ्जर । अप्रमेय प्रसीदास्मदुःखहन्पुरुषोत्तम ॥ ५५ ॥ स्वसंवेद्यस्वरूपास्मदानन्दात्मन्ननामय । अचिन्त्य सार विश्वात्मन्प्रसीदेश निरञ्जन ॥ ५६ ।। प्रसीद तुङ्ग तुङ्गानां प्रसीद शिव शोभन । प्रसीद स्पष्ट गम्भीर गम्भीराणां महाद्युते ।। ५७ ॥