पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे तिलसर्षपतण्डुलैः सशाली- हविराज्यैः सुसमेधिते कृशानौ ॥ ६९ ।। उत्तुङ्गादिः प्रचेता अपि दहनसमीरौ धराव्योमसंज्ञे प्राक्प्रत्यग्दक्षसौम्यास्वध उपरि च दिक्षु प्रबन्धप्रभाः स्युः । तन्मध्यस्थान्विपक्षादिकहरिरुरुदन्तीन्द्रनागान्सचोरा- न्हन्त्येतैर्मन्त्रिमुख्यो मनुविहितबलव्याकुलान्सद्य एव ।। निजरिपुमचलायेस्तै: ससंबाधवीतं मनुविदथ हलोभ्यां रुद्धनिश्वासवेगे । तदुपरिगतबीजैः साधुसंस्यूतवक्रं दहतु सकवचासद्वीन्दुभि: स्वेच्छयैनम् ।। ७१ ॥ योनिर्वियत्सुनेत्रं परमे वर्णांस्तथास्थिगं भेदः । रक्तस्थदृग्द्विठान्त- स्ताराद्योऽयं मनुर्दशार्णयुतः ॥ ७२ ।। अयुतं जपेन्मनुमिमं सहस्रवारं हुनेत्तथाज्येन । 1. बिन्दुभिः