पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः पटलः । राजेरस्थोऽहिपो दण्डी वेदान्तेऽसौ विदण्डकः । सायान्ते नतिरप्यष्टवर्णो वैयासिको मनुः ॥ ६५ ।। मुनिव्रातावीतं मुदितधियमम्भोदरुचिर- द्युत्तिं व्याख्यामुद्राकलनविलसद्दक्षिणकरम् । परं जानौ कृत्वा दृढकलितकक्ष्ये कविवरं समासीनं व्यासं स्मरत निरतं पुण्यचरितम् ।। विकृतिसहस्त्रजपोऽयं दशांशतः पायसाज्यहवनविधिः । निरुपमकविताप्रज्ञा- व्याख्याश्रिसंपदावहो मन्त्रः ॥६७ !! करचरणपार्श्वमूल- द्युलोहरेबिन्दुदुंसरसनार्णाः । अलिकाद्या वर्मास्त्र- द्विठान्तिको मनुरयं ध्रुवादि: स्यात् ।। ६८ ॥ अयुतं प्रजपेच्च षट्सहस्रा- वधि मन्त्रे जुहुयाद्दशांशमानम् ।

  • P.11.13