पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः पटलः । ध्यातापि गिरिसुतेयं जगतीं विश्वां वशीकरोत्यनिशम् ।। ७३ ।। अश्वारूढा कराग्रे नवकनकमयीं नेत्रयष्टिं दधाना दक्षेऽन्येनानयन्ती स्फुरिततनुलतापाशबद्धां स्वस्राध्याम् । देवी नित्यप्रसन्नाननशशधरबिम्बा त्रिनेत्राभिरामा दद्यादाधानवद्या प्रवरसुखफलप्राप्तिहृद्यां श्रियं वः ॥ ४ ॥ विछयानुदिनहृद्ययानया होमकर्मवरहेमदायि तत् । कामितां सपदि वामलोचना- मानयेदपि च मारपीडिताम् ।। ७५ ॥ हवनक्रिया सपदि वश्यकरी मधुरावसेकपटुना पटुना। सदृशो न कश्चन जगत्यपरो अनुनाभुनानयनकर्मविधौ ।। ७६ ॥ वाणी स्यात्ताररूपा शिरसि गिरिसुता शक्तिरूपा ललाटे रव्यग्न्यक्ष्णोस्तथामौ विधुरपि वदनावेष्टने टान्तरूपः ।