पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः पटलः । मायाद्विठान्तिको मनु- रेकाधिकषष्टिवर्णकः प्रोक्तः । ऋषिरस्याजोऽतिनिचृ च्छन्दो गौरी च देवता प्रोक्ता ।। ३६ ॥ सचतुर्दशभिर्दशभि- स्तथाष्टभिश्चाष्टभिस्तथा दशभिः । एकादशभिर्मन्त्रा- क्षरैः क्रमादुच्यते षडङ्गविधिः ॥ ३७ ॥ असकलशशिराजन्मौलिराबद्धपाशा- ङ्कुशरुचिरकराब्जा बन्धुजीवारुणाङ्गी । अमरनिकरवन्द्या त्रिक्षणा शोणलेपां- शुककुसुमयुता स्यात्संपदे पार्वती वः ॥ ३८॥ अयुतं प्रजपेज्जुहुया- द्धृताप्लुतैः पायस्रैर्दशांशेन । आराधयेत्तदङ्गै- र्मातृभिराशाधिपैश्च निशितमनाः ॥ ३९ ॥