पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१२ प्रपञ्चसारे तिलतण्डुलकैर्लोणै- स्त्रिमधुरसिक्तैः फलश्च मधुरतरैः । साज्यैररुणकुवलयै- स्त्रिदिनं हवनक्रिया सुवश्यकरी ।। ४० ।। नित्यं चादित्यगतां देवीं प्रतिपद्य तन्मुखो जप्यात् । अष्टोत्तरशतमङ्गा- मादौ भुवनं वशीकरोत्यचिरात् ।। ४१ ।। वर्णादर्वाङ्मन्त्री प्रयोजयेत्साध्यनामकर्मयुतम् । प्रजपेद्वा हवनविधौ वाच्छितसिद्धिप्रदस्तथा मन्त्रः ॥ ४२ ॥ स्रतारराजमुख्यन्ते राजाधिमुखिवर्णकान् । स्रंभाज्य वश्यमुखि च स्वां श्रीमारार्णकान्वदेत् ॥ ४३ ॥ बीप्स्य देविमहादेविपदं देवादिदेवि च । प्रोक्त्वा सर्वजनस्येति मुखं मम वशं वदेत् ।। ४४ ।।