पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे मृत्काराङ्गुलिकात्तया सकृकलासान्तर्वसायुक्तया साथ्यस्याङ्घ्रिरजोयुजा मृदुमृदा क्लृप्तस्य शक्तिं हृदि । रूपस्याभिविलिख्य तद्विवरके साध्यं तदीरान्प्रति- ष्ठाप्याजल्प्य निखन्य तत्र दिनशो मेहेच्चिरं वश्यकृत् ॥ वामाक्ष्याः प्रतिलिख्य नाम निशया वाभोकदेशे निशा- मध्ये वामकरेण संशितमति: संछादयंस्तन्मनाः । पूर्वं रुद्रपदं ततश्च दयितेयोगीश्वरीबिन्दुम- न्मन्त्रं जप्यति चेदनङ्गविवशां सद्यः प्रियामानयेत् ।। मायाहृदोरथान्ते ब्रह्मश्रीराजितेऽक्षरान्प्रोक्त्वा । राजयुतपूजितेऽर्णा- न्स जये विजये च गौरि गान्धारि॥३४॥ त्रिभुवनवशंकरीति च सर्वलोकान्तिके वशंकरि च । सर्वस्त्रीपुरुषवशं- करि सुदुघे वाक्षरान्प्रवीप्स्य ततः ॥ ३५ ॥