पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः पटलः । ४८९. हल्लेस्वाग्निस्थसाध्याह्वयमपि बहिरांक्रोवृतं वह्निगेह. द्वन्द्वाश्रिस्वस्तिकाढ्यं प्रतिलिखतु दले यन्त्रजं नागवल्ल्याः ।। जप्त्वा शक्तिं तु पाशाङ्कुशलिपिसहितां तापयेद्दीपवह्नौ नक्तं भक्त्यानताङ्गी स्मरशरविवशा प्रेमलोलाभियाति ।। शक्तिस्थं निजनाभिवह्निमवनद्वन्द्वोदरे मान्मथं बीजं साध्यविदर्भया परिवृतं शक्या बहिः पार्थिवम् । तत्कोणे स्मरमन्यपुष्टनयनप्रोत्थैः पुनः कर्णिकै- स्ताम्बूलैर्लिखिताभिजप्तमदयेद्योषिन्मनोमोहनम् ॥२९॥ शक्त्यन्त:स्थितसाध्यनाम परितो बीजैश्चतुर्भिः समा- बद्धं शक्तिमनोभवाङ्कुशलिपिप्रोभिः समावेष्टितम् । शाल्युत्थे प्रतिलिख्य पिष्टविकृतै प्राणान्प्रतिष्ठाप्य च निस्वादौ परिभर्ज्य तत्समदतः साध्यो वशे तिष्ठति ।। डान्तं शिखीलवयुतं दहनांशसाध्यं मायांशसाधकमथाभिवृतं कलाभिः । मध्योल्लसहिमुखशूलमिदं तु भर्तु- र्यन्त्राह्वयं नरनताङ्गिवशंकरं स्यात् ।। ३१ ।। 1. कण्टकै .2. स्ताम्बूले