पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०९
विंशः पटलः ।

 आदौ विधानेषु समेतमूर्ति-
  शक्तीश्चतस्रोऽभियजेद्यथावत् ।
 राशिष्वथो भानुयुताश्च मूर्तीः
  प्रवक्ष्यमाणं च निरूप्य मन्त्री ॥ १५ ॥

 वृषहरिवृश्चिककलशा-
  त्मकेष्वथो केतुकेशवाद्यैश्च ।
 मत्स्यादिकशेषाद्ये।
  समभियजेदन्तरा समावरणे ॥ १६ ॥

प्रानुप्रोद्यत्स्वराष्टद्वितयवृतमहाबीजकं शक्तिलक्ष्मी-
 कामैरात्ताग्निकोणं बहिरभिवृतसिंहान्वितक्रोडमन्त्रम् ।
बिन्दूनामन्तरालेष्वपि च विलिखितैः कादिवगैश्च युक्तं
 षड्भिर्वायव्यगेहावृतमभिमतकामप्रदं मेषयन्त्रम् ।।

 गौरीन्दिरा रतिधृती
  वसुधा पुष्टिक्षमासरस्वत्यः ।
 मूर्त्योश्च मध्यमावृति-
  राशेशात्प्राग्ध्वजादिरपि कथिता ॥ १८ ॥