पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०८ प्रपञ्चसारे धात्रर्यममित्राख्या वरुणांशभगा विवस्वदिन्दुयुताः| पूषाह्वयपर्जन्यौ त्वष्टा विष्णुश्च भानवः प्रोक्ताः ||११||

प्रथमं केशवधातृक- मित्रन्नारायणार्यमाख्यं च| अन्या माधवमैत्रं परमपि गोविन्दवारुणं प्रोक्तम्||१२||

पञ्चममपि विष्णवशं मधुसूदनभगवत्पञ्च षष्ठमपि| त्रिविक्रमविवस्वदाख्यं सप्तममन्यञ्च वामनैन्द्रमपि||१३||

श्रीधरपौष्णं नवमं दशमं च हृषीकनाथपर्जन्यम्| अम्बुजनाभं त्वाष्ठं दामोदरवैष्णवं विधानमिति||१४||