पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे साध्याख्यां शक्तिवहह्नौ नरहरिमपि रन्ध्रत्रये च त्रिशक्तौ कर्मालिख्याथ लोष्टे सतत्तगमपि संस्थाप्य जप्त्वा स्वशक्तया । आगारे स्थापयित्वा नरमुदकनिधेश्चित्रपत्रे लिखित्वा दीपाग्नौ तापयित्वा स्रियममलधियः सम्यगाकर्षयेयुः॥८॥ त्रिगुणितविहिता विधयः षङ्गुणिते च प्रयोजनीया: स्युः । रक्षाकर्मणि विहितं तत्प्राय: प्रचुरमन्त्रयुक्ततया ।। ९ ।। पाशाष्टाक्षरवीतशक्ति दहनप्रोल्लासिसाध्याह्वयं शक्तिश्रीस्मरसंवृतं कुयुगरन्ध्राबद्धचिन्तामणि । इत्थं षड्गुणितं विलिख्य जपितं मन्त्री दधानोऽसकृ- द्राज्ञां वामहशां प्रियो भवति संग्रामे पुरे वा चिरम् ।। चिन्तारत्नाश्रिताश्रित्रियुगमथ नृसिंहावृतान्तःस्थबीजं प्रादुःसाध्याभिधानं बहिरपि लिपिभिः प्रानुलोमानुवीतम् । क्ष्माबिम्बद्वन्द्वरन्ध्रप्रचलितचतुरर्णं ग्रहोन्मादभूत- व्याधिघ्नं यन्त्रमस्मिन्कृतकलशविधिर्गर्भरक्षाधिकारी॥