पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे वशीकरोत्येव हुतक्रियेयं चिराय नैवात्र विचारणीयम् ।। १३४ ।। वस्तुनोत्तेन क्रियतां साङ्गोपाङ्गेन पुतली । तस्यां तु साध्यलिङ्गायां प्राणाद्यर्पणमाचरेत् ॥ १३५ ॥ निक्षिप्य हृदये किंचित्कीटान्तां संस्पृशन्पुनः । प्राणार्पणेन यत्कार्यं क्षिप्रं कुर्याद्विचक्षणः ।। १३६ ॥ अथास्य हृदये स्मृत्वा वर्तुलं वायुमण्डलम् । कृष्णषड्विन्दुग वायुं वायुगर्भं विचिन्तयेत् ।। १३७ ॥ तन्न भूतास्तु तन्मात्राशब्दाद्यं श्रवणादिकम् । धातून्मनश्च बुद्धिं च संक्षिपेदप्यहंक्रियाम् ॥ १३८ ।। तत्सर्वं तेन चण्डेन समीरेण समीरितम् । अवामनासारन्ध्रेण स्वसमीपमुपानयेत् ॥ १३९ ।। प्रवेशयेच्च पुत्तल्यां पुनस्तेनैव बर्ह्मना । प्राणप्रतिष्ठामन्त्रेण लब्धप्राणादिकां तथा ॥ १४० ।। याद्यष्टकान्भ्रमरवद्धृदयाम्बुजस्थां तत्केसरार्पितपरागपरिष्कृताङ्गान् ।