पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः पटलः । संचिन्त्य साध्यहृदयेऽपि तथैव भूयः साध्याम्बुजस्थानलिपिस्वकीयैः ।। १४१ ।। हृत्पद्ममध्यस्थिततन्तुजालै. रेकैकमेकोत्पतितै: क्रमेण । निश्वासमात्रेण सुखं प्रविष्टा- स्तत्प्राणमार्गेण हरेद्द्विरेफान् ।। १४२ ॥ बायव्याग्नेयैन्द्रवारीपमहेश- क्रव्यात्सोमप्रेप्तनाथाश्रितेषु । किञ्जल्केषु प्राणभूतद्विरेफां- स्तत्संबन्धांस्तन्तुभिर्विन्दुभूतैः ।। १४३ ।। अवामनासामार्गेणैवाकृष्याकृष्य पुत्तलीम् । प्रवेशयेत्सुधी: प्राणान्प्राणाद्यर्पणयोगतः ।। १४४ ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे त्रिंशः पटलः॥