पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः पटलः । ४७१ पुनः प्रतिकृतेरङ्गसहकं निशितायसा । दक्षपादादिकं छित्वा पञ्चर्चं प्रजपेन्मनुम् ॥ ११३ ॥ साध्यं संस्मृत्य शितधीर्जुहुयात्सप्तसंख्यया । दक्षिणं चरणं पूर्वं ततो दक्षार्धकं पुन: ॥ ११४ ॥ दक्षहस्तं तृतीयं स्याद्गळादूर्ध्वं चतुर्थकम् । पञ्चमं बामहस्तं स्यात्षष्ठं वामार्धमेव च ।। ११५ ॥ सप्तमं वामपादं स्यादन्यापि स्याद्धुतक्रिया । सप्त सप्त विभागो वा क्रमादङ्गेषु सप्तसु ॥ ११६ ॥ एकादशांशभिन्नैर्वा तदङ्गैः सप्तभिहुनेत् । होमोऽन्यथा वा पूर्व तु दक्षिणश्चरणो भवेत् ।। ११७॥ द्वितीयो दक्षिणकरस्तृतीयः शिर उच्यते । वामबाहुश्चतुर्थस्तु मध्यादूर्ध्वं तु पञ्चकम् ।। ११८ ॥ अधोभागस्तु षष्ठः स्याद्वामभागस्तु सप्तकः । हुत्वैवं पूर्वसंप्रोक्तैरुपस्थापकमन्त्रकैः ॥ ११९ ।। अर्चयित्वा दण्डदीर्घं प्रणमेद्धव्यवाहनम् । सकर्षस्वर्णयुक्ताङ्गां शोणां दद्यात्सतर्णकाम् ॥ १२० ॥