पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४७० प्रपञ्चसारे त्वमाननममित्रघ्न निशायां हव्यवाहन । हविषा मन्त्रदतेन तृप्तो अव मया सह ।। १०५ ।। जातवेदो महादेव तप्तजाम्बूनदप्रभ । स्वाहपते विश्वमक्ष लवणं दह शत्रुहन् ॥ १०६ ।। ईशे ईश्वरि शर्वाणि प्रस्तं मुक्तं त्वया जगत् । महादेवि नमस्तुभ्यं वरदे कामदा भव ।। १०७ ।। तमोमयि महादेवि महादेवस्य सुव्रते । स्त्रिया से पुरुषं गत्वा वशमानय देहि मे ।। १०८ ।। दुर्गे दुर्गादिरहिते दुर्गसंशोधनार्गले । चक्रशङ्खधरे देवि दुष्टशत्रुभयंकरि ।। १०९ ।। नमस्ते दह शत्रुं मे वशमानय चण्डिके । शाकंभरि महादेवि शरणं मे भवानघे ॥ ११०॥ भद्रकालि भवाभीष्टे भद्रसिद्धिप्रदायिनि । सपत्नात्मे दह दह पच शोषय तापय ॥ १११ ।। शूलादिशक्तिवाद्यैरुत्कृत्योत्कृत्य मारय । महादेवि महाकालि रक्षात्मानं कुमारिके ॥ ११२ ॥