पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे अरुणोऽरुणपङ्कजसंनिहितः स्रुवशक्तिवराभययुक्तकरः। अमितार्चिरजात्तगतिर्विलस- न्नयनत्रितयोऽवतु वो दहनः ।। ७८ ।। नीलवरांशुककेशकलापा नीलतनुर्निबिडस्तनभारा। साङ्कुशपाशसशूलकपाला यामवती भवतोऽवतु नित्यम् ॥ ७९ ।। करकमलविराजञ्चक्रशङ्खातिशूला परिलसितकिरीटा पातितानेकदैत्या । त्रिणयसलसिताङ्गी तिग्मरश्मिप्रकाशा पवनसखनिभाङ्गी पातु कात्यायनी वः ।।८।। सुरौद्रसितदंष्ट्रिका त्रिणयनोर्ध्वकेशोल्बणा कपालपरशूल्लसड्डमरुका त्रिशूलाकुला । धनाधननिभा रणद्रुचिरकिङ्किणीमालिका भवद्विभवसिद्धये भवतु भद्रकाली चिरम् ।। ८१॥