पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः पटलः । बहुना किमनेन मन्त्रिमुख्यो मनुनाशु प्रतिसाधयेदभीष्टम् । हवनक्रिययाथ तर्पणैर्वा सजपैः पाशभृतो महामहिम्नः ॥ ७२ ।। अथ लवणमनुं वदामि साङ्गं सजपं सप्रतिपत्तिकं सहोमम् । विधिवद्विहितेन येन सर्वां जगतीमात्मवशे करोति मन्त्री ।। ७३ ।। लवणाम्भसि चेत्याद्या द्वितीया लबणे इति । दहेति च तृतीया स्यात्लदग्ध्वेति चतुर्थ्यपि ।। ७४ ॥ ऋक्पञ्चमी तु या ते म्याद्यथा प्रोक्तमथर्वणि । ऋग्भिराभिस्तु पञ्चाङ्गं पञ्चभिर्वा समीरितम् ।। ७५ ॥ चिट्यक्षरैः षडङ्गं वा प्रणवाद्यैर्निगद्यते । पञ्चभिश्च त्रिभिरपि पञ्चभिः पञ्च चाक्षरैः ॥ ७६ ॥ सपञ्चभिर्युगार्णेण जातियुक्तैः समाहितः । अङ्गिरा: स्यादृषिश्छन्दोऽनुष्टुबत्रैव देवता । अग्निरात्री तथा दुर्गा भद्रकाली समरिता ।। ७७ ॥

  • P. Il. 11