पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः पटलः । उद्दिश्य यद्यदिह मन्त्रितमो जुहोति सूक्तैरमा निगदितैस्त्रिविधैश्च मन्त्रैः । व्यस्तैर्यथाविभवतो विधिवत्समस्तै- स्तन्तस्य सिध्यति समग्रमयत्नमेव ।। ५५ ॥ ऋग्वारुणी ध्रुवा स्वाद्या या मा त्रिष्टुनिगद्यते । ऋषिर्वसिष्ठस्त्रिष्टुप्च च्छन्दो वारीशदेवता ।। ५६ ॥ अष्टभिः सप्तभिः षड्भिः पुनस्तावद्भिरक्षरैः । षडङ्गानि विधेयानि तन्मन्त्रसमुदीरितैः ।। ५७ ।। अङ्गुल्यप्रससंधिपायुशिवसंज्ञाधारनामिष्वथो कुक्षौ पृष्ठहदोफरोजगलदो:संध्यप्रवकेषु च । गण्डघ्राणविलोचन श्रवणयुग्भ्रूमध्यमध्येषु के सर्वाङ्गेषु तथा न्यसेद्विशदधीर्वर्णैः समर्थैः क्रमात् ।। अच्छांशुकाभरणमाल्यविलेपनाढ्यः पाशाङ्कुशाभयवरोद्यतदो: सरोजः । स्वच्छारविन्दवसत्तिः सुसितः प्रसन्नो भूयाद्विभूतिविधये वरुणश्चिरं वः ।। ५९ ॥