पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे अङ्गैरष्टभिरहिपै- र्दिशाधिपैः समभिपूज्य वारीशम् । कलशैः पुनरभिषिञ्चे- त्परमगुरुर्मन्त्रजापिनं शिष्यम् ।। ६० ॥ वसुभिः प्रसाद्य देशिक. मथ शिष्यो मनुमिमं जपेल्लक्षम् । जुहुयाच्च दुग्धपक्वै. रनैरयुतं घृताप्लुतैर्मतिमान् ॥ ६१ ॥ ऋगियमृणमोचनी स्या- जपैर्हुतैस्तर्पणैश्च मन्त्रविदः । संप्राप्तदुर्गतेरपि सद्यो हृद्यां च संवहेल्लक्ष्मीम् ॥ ६२ ॥ इक्षोः सितैश्च शकलै. र्घृतसंसिक्तैश्चतुर्दिनं जुहुयात् । सकलोपद्रवशान्त्यै तथर्णमुक्त्यै च संपदे सुचिरम् ॥ ६३ ।।