पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे जुहुयात्कलाचतुष्कैः प्रत्यृचमायोज्य कादिवर्गचतुष्कैः ! तद्वच पयशलाद्यै- र्वर्गैः संयोज्य पूर्ववन्मतिमान् ॥ ५१ ॥ तद्वद्दचं प्रतियोज्य त्रिष्टुप्पादांश्च पूर्वसंख्येन। जुहुयात्सर्पि:सिक्तं पायसमचिरेण कार्य समवाप्त्यै ॥ ५२ ।। प्रतिपादमथर्क्पादिं प्रतियोज्य जुहोतु पूर्ववन्मतिमान् । तेनाभीष्टावाप्ति र्नचिरेण नरस्य हस्तगा भवति ॥ ५३ ॥ अक्षरपादात्रिष्टु- ब्युक्तैः सूक्तैस्तु पूर्वसंख्येन । जुहुयात्समाजरूपं संवादयितुं प्रतर्पयेद्वाग्भिः ।। ५४ ।।