पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनत्रिंशः पटलः।

तिथिषु तु कालाष्टम्यां तेषु विशाखाग्निमूलभागेषु । वारेषु मन्दवाक्पति- वर्जं सर्वे तथा प्रशस्यन्ते ॥ १० ॥ हस्तश्रवणमखासु प्राजापत्येषु कर्म कुर्वीत । द्वादशसहस्रसंख्यं प्रजपेद्गायत्रमपि यथाप्रोक्तम् ।। ९१ ॥ मध्ये च मूलमनुना तदायुधैरष्टदिक्षु चक्राद्यैः । सकपालान्तैः पृथगपि संस्थापनकर्म निगदितं विधिवत् ।। ९२ ॥ तास्ताश्च देवता अपि परिपूज्य यथाक्रमेण मन्त्रितमः । कुर्याद्वलिं दिनग्रह- करणेभ्यो लोकपालराशिभ्यः ।। ९३ ॥1. भेषु; 2. दिनकरग्रहणेभ्यो