पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे

विलिखेत्क्रमेण मन्त्रा- क्षरांश्च शिष्टेषु तेषु कोष्ठेषु । तत्र मरुतः प्रतिष्ठां विधाय विनिधाय वह्निमपि जुहुयात् ।। ८६ ।। आज्यनाष्टसहस्त्रं फलकोपरि सम्यगात्तसंपातम् । विप्रतिपत्तिधरायां निखनेन्नश्यन्त्युपद्रवाः सद्यः ।। ८७ ।। सिकताचरुगव्याश्मक- मृदां प्रतिष्ठा विधीयते सिद्ध्यै । प्रस्थाढकघटमाना ग्रहपुरविषयाभिगुप्तये सिकता: ॥ ८८ ॥ मध्याष्टाशान्तासु च कुण्डानामारचय्य नवकमपि । विधिना निवपेत्क्रमशः सिंहधनुश्छागयायिनि दिनेशे ॥ ८९ ॥