पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अपञ्चसारे विलोमपाठो वर्णानामस्त्रमाहुर्मनीषिणः । पादाष्टकमिदं विधात्ततोऽष्टाङ्गो मनुः स्वयम् ॥ २९॥ जनुकामो मनुं त्वेनं पादास्तु प्रतिलोमतः । पठेत्तथा हि मन्त्रोऽयं क्षाल्यते दुष्टदूषित: ।। ३० ॥ आद्याः पञ्चाक्षरपदास्त्रयः सप्ताक्षरः परः । पञ्चमञ्चाथ षष्ठश्च द्वौ तु पादौ षडक्षरौ । पश्चाक्षरौ तदन्त्यौ च तेषां भावो निगद्यते ॥ ३१॥ ग्न्याद्यं ज्ञानेन्द्रियं कामं द्वितीयं पाञ्चभौतिकम् । तृतीयं धातवः सप्त चतुर्थं वर्णसप्तकम् ॥ ३२ ॥ पद्धर्मयः पञ्चमं स्यात्वष्ठः षट्कोशिको मतः । सप्तमश्वाष्टमः पादः शब्दाचं वचनादिकम् ।। ३३ ॥ साङ्गः सत्प्रतिपत्तिकः सगुरुपद्वन्द्वप्रमाणक्रमा- ज्जाप्येत्यादिषडन्तकोऽन्तविगतो वर्णप्रतीपस्तथा । गुर्वादेशविधानतश्च विविधध्यानक्रियो मन्त्रिणा तत्तत्कार्यसमाप्तयेऽखिलविपद्ध्वान्तौघभानूदयः ।।