पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टाविंशः पटलः॥ अथाखिलार्थानुततैव'1 शक्ति- र्युक्ता चतुर्विंशतितत्त्वभेदैः। गायत्रिखंज्ञापि च तद्विशेषा- नथ प्रयोगान्कथयामि साङ्गान् ॥ १ ॥ ताराह्वयो व्याहृतयश्च सप्त गायत्रिमन्त्र: शिरसा समेतः । अन्वर्थकं मन्त्रमिमं तु वेद- सारं पुनर्वेदविदो वदन्ति ॥२॥ जप्यः स्यादिह परलोकसिद्धिकामै- र्मन्त्रोऽयं 2महिततर्द्विजैर्यथावत् । भूदेवा नरपतयस्तृतीयवर्णाः संप्रोक्ता द्विजवचनेन तत्र भूयः ।। ३ ।। 1. अनुगतैव. १. महिततरो.