पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तविंशः पटलः । सप्तदिनैः स तु लभते वासस्तद्वर्णसंकाशम् ॥ ४३ ॥ अहरहरष्टशतं यो मन्त्रेणानेन तर्पयेदीशम् । तस्य तु मासचतुष्का- दर्वाक्संजायते महालक्ष्मीः ।। ४४ ॥ साध्यर्क्षाङ्घ्रिपचर्मणां सुममृणां पिष्टैश्च लोणैः समं कृत्वा पुत्तलिकां प्रतिष्ठितचलां जप्त्वा च रात्रौ हुनेत् । सप्ताहं पुरुषोऽङ्गना यदि चिरं वश्यं त्ववश्यं भवे. दस्मिञ्जन्मनि नात्र चोद्यविषयो देहान्तरे संशयः ।। इति चण्डमन्त्रविहितं विधिव- द्विधिमादरेण य इमं भजते । स तु वाञ्छितं 'पदमिहाप्य पुन: शिवरूपतामपि परत्र लभेत् ॥ ४६ ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे सप्तविंशः पटलः॥ 1. पदमवाप्य.