पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४११
सप्तविंशः पटलः ।


 कृत्वा बह्नेः पुरमनु मनुं बन्धुजीवेन तस्मि-
  न्नाधायाग्निं विधिवदभिसंपूज्य चाज्यैः शताख्यम् ।
 त्रैलोहाख्ये प्रतिविहितसंपातमष्टोत्तरं त-
  द्धुत्वा जप्तं दुरितविषवेतालभूतादिहारि ॥ २४ ॥

साध्याख्यागर्भसेनं लिख दहनपुरे कर्णिकायां षडश्रं
 बाह्येऽश्रिष्वङ्गमन्नान्दलमनु परितो बीजवर्णान्विभज्य ।
भूयोऽचः कादियादीस्त्रिषु वृतिषु कुगेहाश्रके नारसिंहं
 तस्मिन्कार्ये यथावत्कलशबिधिरयं सर्वरक्षाकरः स्यात् ।।

टान्ते लिख्यात्कलाभिर्वृतमनुमनलावासयुग्मेन बह्नि-
 द्योतत्कोणेन बाह्ये तदनु सवितृबिम्बेन काद्यार्णभाजा ।
तद्वाह्ये क्ष्मापुराभ्यां लिखितनृहरियुक्ताश्रकाभ्यां तदेत-
 द्यन्त्रं रक्षाकरं स्याद्रुहगदविषमक्ष्वेलजूर्त्यादिरोगे ॥२६॥

बिम्बद्वन्द्वे कृशानोर्विलिखतु मणिमेनं सस्राध्यं तदाश्रि-
 ष्वग्न्यादीन्व्यञ्जनार्णान्स्वरयुगलमथो संधिषट्के यथावत् ।
तारावीतं च बाह्ये कुगृहपरिवृतं गोमयाब्रोचनाभ्यां
 लाक्षाबद्धं निबध्याज्जपमहितमिदं साधु साध्योत्तमाङ्गे ॥