पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१२
प्रपञ्चसारे


  लक्ष्म्यायुःपुष्टिकरं
   परं च सौभाग्यवश्यकृत्सततम् ।
  चोरव्यालमहोरग-
   भूतापस्मारहारि यन्त्रमिदम् ॥ २८ ॥

साध्याख्याकर्मयुक्तं दहनपुरयुगे मत्रमेनं तदश्रि-
 ष्वग्निज्वालाश्च बाह्ये विषतरुविटपे साग्रशाखे लिखित्वा ।
जत्वाष्टोर्ध्व्ं सहस्रं नृहरिकृतधिया स्वापयेत्तत्र शत्रु-
 व्याघ्रादिकोडचोरादिभिरपि च पिशाचादयो न व्रजन्ति ।।

 ससिद्धसुरपूजितः सकलवर्गसंसाधको
  ग्रह्ज्वररुजापहो विषविसर्पदोषापहः ।
 किमत्र बहुनार्थिनामभिमतार्थचिन्तामणिः
  समुक्त इह संग्रहान्मनुवरस्तु चिन्तामणिः ॥

 षष्ठस्वरो हुतवहस्तययोस्तुरीया-
  वाद्यस्वरो मनुरयं कथित: फडन्तः ।
 अस्य त्रिको निगदितो मनुरप्यनुष्टु-
  प्छन्दश्च चण्डसहितो मनुदेवतेशः ।। ३१ ।।