पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१०
प्रपञ्चसारे


  पररेफगर्भधृतसाध्यपदं
   त्रिकगं हुताशयुतषट्कवृतम् ।
  विगतस्वरावृतमगारभुवि
   स्थितमेतदाशु वशयेद्रमणान् ॥ २०॥

  मधुरत्रयसंयुतेन शाली-
   रजसा पुत्तलिकां विधाय तेन ।
  मनुना जुहुयात्तया विभज्य
   विदिनं यस्य कृते वशो भवेत्सः ॥ २१ ॥

  विषपावकोद्यदभिधानगदं
   ठगतं कुकोणयुतलाङ्गलिकम्1 ।
  अहिपत्रक्लृप्तपरिजप्तमिदं
   शिरसो रुजं प्रशमयेददनात् ॥ २२ ॥

कण्ठे केनावनद्धार्पितदहनयुजा मज्जया मेन वामं
 दक्षं स्रंवेष्ट्य वक्षोरुहमनलसमीरौभिरंसद्वयं च ।
बक्ते नाभौ च दीर्घं सुमतिरथ विनिक्षिप्य बिन्दुं निशेशं
 वक्षस्याधाय बद्धा चिरमिव विहरेत्कन्दुकैरात्मसाध्यैः ॥

1. लिनम्