पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९७
षड्विंशः पटलः ।

कृत्वा समाप्य मण्डल-
 मत्र विनिक्षिप्य पूरयेत्कलशम् ।
पीठे पिनाकपाणे-
 र्गव्यैर्वा कवाथक्लृप्रतोयैर्वा ॥ २३ ॥

अङ्गावृतेरनु च हेतिभिरीरिताभिः
 पश्वाञ्च मातृभिरथापि दिशाधिनाथैः ।
संपूजयीत विधिनेति षडक्षरोक्त-
 मार्गेण वा मनुपरिस्फुरणाय मन्त्री ॥ २४ ॥

आज्यापामार्गसमि-
 त्तिलसर्पपपायसाज्यकैश्च पृथक् ।
रात्रौ सहस्रहोमा-
 द्भूतद्रोहादिशान्तिरुद्दिष्टा ॥ २५ ॥

सितकिंशुकनिर्गुण्डी-
 कनकापामार्गजन्मनां समिधाम् ।
पृथमपि सहस्रहोमा-
 न्निग्रहमोक्षोऽचिराद्ग्रहाणां स्यात् ॥ २६ ॥