पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३९६ प्रपञ्चसारे स्वच्छो मुमुक्षोस्तु भवेदघोरः काम्यक्रियायामपि रक्तवर्णः । कृष्णोऽभिचारे ग्रहवैकृते च प्रोक्तो जपः स्यादपि लक्षमानम् ॥ १९ ॥ घृतावसिक्तैस्तिलतण्डुलैश्च जयावसाने जुहुयाद्दशांशम् । घृतप्लुतैर्वाथ हविर्भिरेवं तावत्प्रजुह्वन्समुपैति कामान् ॥ २०॥ हृृल्लेखास्थितसाध्या- क्षरविलसत्कर्णिकं कलावीतम् । वर्गाष्टकात्तकेसर- मन्त्ये सहळक्षयाक्षरोल्लसितम् ॥ २१ ॥ मन्त्राक्षरत्रयोध- इलमध्यदलाग्रकं च तद्वाहो। वह्निपुटाश्रिसामाश्रित- कवचास्त्रं प्रतिविलिख्य यन्त्रमिदम् ॥ २२॥