पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९८
प्रपञ्चसारे

गव्याक्तैर्जुहुयात्पृथग्दशशतं मन्त्री मयूरेध्मकै-
 र्भूयस्तैश्चतुरङ्गुलैश्च शिवपञ्चम्यां निशायां हुनेत् ।
सर्पिर्मार्गसपञ्चगव्यचरुसर्पिः ससंपातकं
 हुत्वा तलतिभोजयेत्प्रतिशमं यान्त्येव सर्वे ग्रहाः ।।

षट्कोणे कर्णिकायां स्फुरयुगलवृतां साध्यगर्भो च शक्तिं
 कोणाग्रे प्रस्फुरद्वन्द्वकमथ विलिखेन्मन्त्रवर्णान्दलेषु ।
षड्वेदद्वन्द्वषड्वेदकचतुर्युगषट्संख्यकान्बाह्यपट्के
 वर्मास्त्रार्णो तदेतद्ग्रहगदभयहृद्यन्त्रमाघोरमाहुः ।।

 न च रिपवो न च रोगा
  न ग्रहपीडा न शस्त्रबाधा च ।
 न क्ष्वेलरुजा मर्त्या-
  न्स्पृशन्त्यघोरास्त्रमन्त्रजापपरान् ॥ २९॥

 तस्मादघोरास्त्रमनुं प्रजप्या-
  त्समर्चयेत्तद्विहितं यथावत् ।
 हुनेच्च तेनैव समस्तवाञ्छा-
  संसिद्धये चाथ विमुक्तये च ॥ ३०॥