पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 विदूषकः-(क) किं एळावणे तुवं ।

 उन्मत्तकः-(ख) आम एळावणे अहं । ण हु दाव देवळाजो में आशणं आलुहदि । शुदं च मए पादपाशिएहि इन्दे वज्झ ति । धारााणअलेहि विज्जुम्मईहि कशाहि ताळिअ वाउब्भामेण परिभमन्तेण भिन्दीअदि मेहबन्धणं ।


 (क) किमैरावणस्त्वम् ।

 (ख)आम ऐरावणोऽहम् । न. खलु तावद् देवराजो मामासनमारोहति । श्रुतं च मया पादपाशिकैरिन्द्रो बद्ध इति। धारानिगलै: विघुन्मयीभिः कशाभिस्ताडयित्वा वातोद्भ्रमेण परिभ्रमता भिद्यते भेघबन्धनम् ।


दन-मदयमनार्थस्वामिबन्धमोचन नलागिर्यारोहणघटनात्मनाभ्युपायेनेत्यर्थः । योजनशतं योजनशतविप्रकृष्टं कौशम्बीनगरं । गन्तव्यं गन्तुं शक्यम् । अतो मन्त्रणीयवस्वभावात् किमर्थं पुनर्मन्त्रणमिच्छसीत्याभिप्रायः । इत्यभ्यन्तरः ॥

 किभिति । त्वम् ऐरावणः किम् इन्द्रवाहभूता ऐरावत इव तावद्दरगमने शक्त्तः किम् । इति बाह्योऽर्थः। पूर्वमन्त्ररीत्या कार्याणि साधयितुं किं ते दिव्यशक्तिरंस्तीत्याभ्यन्तरः ॥

 आभेति । आम अहम् ऐरावणः ऐरावत एव । किन्तु देवराजः इन्द्रः । आसनं, मां, न खलु आरोहति । यद्यारोहति तमपि वहन् क्षणेनैव योजनशतं गन्तुमहं शक्त इति बाह्योऽर्थः । देवराजः देवानां राज्ञां राजा राजश्रेष्ठः अस्मत्स्वामी । आसनम् अधश्चरं किङ्करं । मां नारोहति न नियुङ्क्त्ते । यदि नियुङ्क्ते मन्त्रितपूर्वं ततोऽधिकं वा कर्म कर्तुमहं समर्थ इत्याभ्यन्तरः । इन्द्रः , पादपाशिकैः पादपाशः चदणबन्धनरज्जुः प्रहरणमेषामिति ‘प्रहरणम्’ इति ठक् , क्षुद्रायुधयोधिभिरल्पसारैरित्यर्थः । बद्ध इति , मया श्रुतं च ज्ञातं च । अत एव मां नारोहतीत्युग्मत्तसदृशो बाह्योऽर्थः । इन्द्रः अस्मस्वामी शालङ्कायनादिमिः क्षुद्रैरदेशकालदोषाद् बद्ध इत्याभ्यन्तरः । धारानगलैः धारायाः वष्टिजलप्रपातस्य निगलैः प्रतिबन्धकैः । विघुन्मयीभिः असिततडिदूपाभिः । कशाभिः प्रतोदैः । ताडयित्वा अर्थान्मेघान् । परिभ्रमता परितो वलमानेन । वातोद्भ्रामेण उद्भ्रान्तवातेन चण्डावर्तमारुतेनेत्यर्थः । मेघबन्धनं मेधैर्वन्धनम् अन्तरिक्षावरोघन । भिद्यते भेत्स्यते । वृष्टिप्रतिबन्धकतडिच्चण्डवातप्रवर्तनया मेघानन्तरिश्चादपसारयामीति भावः ।