विदूषकः - (क) भो उम्मत्तअ ! ण तुवं मम दइस्सिसि, विळविस्सं दाव अहं ।
उन्मत्तकः--(ख) विळव विळव विक्कोस वा विळव।
विदूषकः-(ग) अब्बम्मण्णं भो । अब्बम्मण्णं ।
उन्मत्तकः--(घ) अहं पि विळविरसं । इन्दे वज्झे भो । इन्दे वज्झे भो ।
विदूषकः--(ङ) अब्बम्मण्णं भो । अब्बम्मण्णं ।
(क) भो उन्मत्तक ! न त्वं मम दास्यसि, विलपिष्यामि तावदहम् ।
(ख) विळप विलप विक्रोश वा विलाप ।
(ग) अब्रह्मण्यं भो ! अब्रह्मण्यम् ।
(घ) अहमपि विलपिष्यामि । इन्द्रो बद्धो भो ! इन्द्रो बद्धो भोः ।
(ङ) अब्रह्मण्यं भो ! अब्रह्मण्यम् ।
इति बाह्योऽर्थ उन्मतात्तानुगुणः। धारानिगलैः शत्रुसेनाग्रप्रतिरोधिकाभिः । विघुन्मयीभिः कशाभिः ताडयित्वा, विघुद्भिरिवातर्कितमाविर्भवन्तीमिः कशाभिः कशासदृशैरस्माकं गूढभटैः शत्रून् बाधायेत्वा । मेघबन्धनं भिद्यते, मेघवजगात्प्रियस्य स्वामिनो बन्धनं भेत्स्यते । इत्याभ्यन्तरः । "धारा प्रवाहे नद्यादेः सैन्याग्रे द्रवसन्ततौ " इति केशवः । " वाताय कपिला विघुदातपायातिलोहिनी पीता वर्षाय विज्ञेया दुर्भिक्षायासिता भवेत् ॥ " इत्यागमः ॥
भो इत्यादि । त्पष्टो बाह्योऽर्थः । त्वं ममैकाकिनो मन्त्रावसरं चेन्न दास्यसि, अर्थाद् रुमण्वत्सन्निधानमपि यदि प्रतीक्षसे, तर्हि तमाह्वास्यामीत्याभ्यतर: ॥
विळवेत्यादि । , विक्कोसअ ’ इति केचित् पाठः समीचीनः । हे विक्रोशक ! आक्रोशकारिन् ! इत्यर्थः ॥
अब्बम्मण्णमित्ति । अब्रह्मण्यम् अधर्म: । अन्योन्याह्वानसङ्केताविशेष एष आक्रोशः ॥
अहमित्यादि । अयमष्याक्रोश आह्वानसङ्केतविशेषः ॥
पुनार्विदूषकस्याक्रोशः-अब्बम्मण्णमित्यादि ॥