पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
तृतीयोऽङ्कः । ।

ळाअगिहे दिण्णमुळ्ळिआ काळवसेण मुहुत्तदुब्बळा ॥ १ ॥

 विदूषकः-(क) भो उम्मत्तअ | आणेहि मम मोदअमळ्ळअं । इइमिणा पच्चएण उवज्झअउलं गन्तव्वं ।

 उन्मत्तकः-(ख) मए वि इमिणा पच्चएण जोअणसदं गन्तव्वं ।


 राजगृहे दत्तमूल्या काळवशेन मुहूर्तदुर्बळः ॥

 (क) भो उन्मत्तक ! आनय मम मोदकमल्लकम् । अनेन प्रत्ययेनोपाध्यायकुलं गन्तव्यम् ।

 (ख) मयाप्यनेन प्रत्ययेन योजनशतं गन्तव्यम् ।


लङ्करभेदैः गुळचणकनालिकेरादिभिरुपस्कारभेदैः मण्डिताः अळङ्कृताः पूरितोदराः । राजगृहे दत्तमूल्याः राजगृहे मया मूल्यं दत्त्वा गृहीताः, न त्वन्यदीयाक्ष्चोरिताः । कालवशेन कालपरिवासेन मुहूर्तदुर्बलाः क्षणेन नीरसाः विक्ष्लथावयवा वा । मुहूर्ताधिककालपरिवासमसहमाना इस्याभिप्रायः । मोदकाः मम, प्रीतिं तुप्तिम् । उपदातुम्, उपस्थिता मम करे सन्निहिताः । इति बाह्योऽर्थः । नेपथ्यविशेषैः मूकबधिरखञ्जादिवेषभेदैरलङ्कृताः । राजगृहे वत्सराजगृहे दत्तमृल्याः मया स्वामिना च दत्तभोग्याः । अत एव प्रीतिम् उपदातुं मम च स्वाभिनेश्च परितोषं जनयितुम्। उपस्थिताः सभीथे उज्जथिन्थामेव गूढं स्थिताः । भोदकाः स्वमिभृत्याः । कालवशेन कालानुसरेण । मुहूर्तदुर्बलाः मुहूर्ते दुर्बळाः कियन्तंचित् कालम् अप्रकाशमानशौर्याः । सन्ति । योग्थे तु काळे प्राप्ते स्वं बलमवश्यं प्रकाशथिष्यन्तीत्याशयः । इयाभ्यन्तरः ॥ १ ॥

 भे इति । भो उन्मत्तक ! मम भेदकमल्लकम् आनय । अनेन भोदकेन प्रत्ययेन हेतुना अर्थोत् पाथेथेन । उपाध्यायकुळम् आचर्यगृहं गन्तव्यम् । मा भे दूरजिगमिषोः पाथेयहर्ता भवेति बाह्योऽर्थः । यौगन्धरायण । मम मन्त्रावसरं देहि । अनेन प्रत्ययेन मन्त्रनन्तरलस्थेन कार्यनिश्चयेन सह । उपाध्यायकुलं गन्तव्यं स्वाभिवासस्थलं गन्तव्यं, स्वामिने मन्त्रार्थे निवेदयितुम् । तस्मान्मन्त्राय त्वरस्वेत्यभिप्रीयंः । इत्याभ्यन्तरः। "प्रत्ययोऽधीनशपथज्ञानाविश्वासहेतुषु रन्ध्रे च प्रथितत्वे चाप्याचरप्रतियानयोः ॥ " इति केशवः ॥

 मए इति । बाह्यर्थः स्फुटः'। मंयापि ‘अर्थातं स्वभिसहितेन अयंवा लक्षणय मंत्स्वामिनापि । अनेन प्रययेन मधुल्लिखितपूर्वेण रन्ध्रेण , नलागिरिमदोत्पा-