विदूषकः-(क) ण खंब्जन्ति ण खञ्जन्ति ण उज्झन्ति अ ।
उन्मत्तकः--(ख) एसा खु मम रसणा खाइदुकामा ळिङ्गाणि करोदे ।
विदूषकः--(ग) भो उम्मत्तअ! आणेहि मम मोदअमव्ळअं । मा परकेरए सिणेहं करिअ ओवज्झेहि ।
उन्मत्तकः--(घ) के के मं वज्झन्ति । मोदआ खु में रक्खन्ति ।
णेवच्छविसमण्डिदा पीदिं उवदेदुं उवट्ठिआ। |
(क) न खद्यन्ते न खाद्यन्ते नोज्झ्पन्ते च ।
(ख) एषा खलु मम रसना खादितुकामा लिङ्गानि करोति ।
(ग) भो । उन्मत्तक । आनय मम मोदकमल्लकम् । मा परकीये रन्नेहं कृत्वा अवबध्यस्व ।
(घ) के के मां बश्नन्ति । मोदकाः खलु मां रक्षन्ति । नेपथ्यविशेषमण्डिताः प्रीतिमुपदातुमुपस्थिताः ।
णेति । खादनप्रतिषधेस्य दाढर्याय द्विरुक्तिः । खादनज्झनथोः प्रतिषेधाद बन्धनपक्षोऽनुज्ञातः ॥
एसा इत्यादि । एषT , मम रसना जिह्वा खादितुकामा भक्षयितुकामा । लिङ्गानि बुभुक्षुचिह्नानि करोति इति बाह्योऽर्थः । एषा मम बुद्धिः शत्रून् हन्तुकामा जिघांसुचिह्नानि करोतीत्याभ्यन्तरः ॥
भो इति । बाह्यार्थः स्फुटः । भो यौगन्धरायण ! मम मन्त्रावसरं देहि , वृत्तान्ततत्तवं ते निवेदयामि। वत्सराजे परकीये पराधीने सति, यथानिश्चिततत्कौशाम्बीप्रयाणाभिनिवेशं कृत्वा शत्रुबद्धो मा भवेति आभ्यन्तरः ॥
के इति । के के मा बध्नन्ति, मां बन्धं न कोऽपि शक्त इत्युभयत्र समानोऽर्थः । मोदका इति । भोदकाः खलु मा रक्षन्ति अर्थात् क्षुन्निवारणेन । इति बाह्योऽर्थः मोदकाः स्थानस्थानेषु स्थापिताः छन्नचारिणो वत्सराजभटाः । मां रक्षान्ति रक्षिष्यन्ति अर्थाद् मद्वन्धनोद्यतेभ्यः शत्रुभ्यः । इत्याभ्यन्तरः ।
मोदकान् स्तौति । णेवच्छेति । नेपथ्यविचेषमण्डिताः नेपथ्यविषै अ-