पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
प्रतिज्ञायौगन्धरायणे सव्याख्याने

सिवस्स पादमूळे चिट्ठइ । जाव णं गहणामि । देहि भट्टा ! देहि मे मोदअमळ्ळअं । भट्टा ! तुवं वि मम चोरो सि । अविहा आळिहिदं खु मम मोदअमळ्ळअं संदावतिभिरेण सुट्टा ण पेक्खामि । भोदु पमज्जिस्सं दाव अहं । हीही साहु ळे चित्तअर ! भाव ! साहु । जुत्तळेइदाए वण्णाणं


शिवस्य पादमूले तिष्ठति । यावद् एनं गृह्नामि । देहि भर्तः ! देहि मे मोदकमल्लकम् । भर्तः ! त्वमपि मम चोरोऽसि । अविधा आलिखितं खलु मम मोदकमल्लकं सन्तापतिमिरेण सुष्ठु न प्रेक्षे । भवतु प्रमार्जिष्यामि तावदहम् । हीही साधु रे चित्रकर ! भावः ! साधु । युक्तळेखतया वर्णानां


णरूपम् । शिवस्य यौगन्धरायणस्य पादमूले तिष्ठति यौगन्धरायणैकसाध्यत्वात् तदधीनमित्यर्थः । अथवा परमेश्वरकृपैकसाध्यवात् तदधीनमिति इत्यप्यन्तरः ।

 जावेति । एनं मोदकमल्लकम्। यावद् गृह्णामि ग्रहीष्यामीति बाह्योऽर्थः। एनं भगवत्पादमूलं ग्रहीष्यामि शरणीकरिष्यामि इष्टार्थसिद्धये इत्याभ्यन्तरः।

 देहीति । बाह्यार्थः स्फुटः । मे, मोदकमल्लकं देहि प्रियतमं यौगन्धरायणक्षिप्रसमागमं मन्त्रार्थे घटयेत्यर्थः । सवासवदत्तवत्सराजहरणं घटयेति वा । इत्याभ्यन्तरः ।

 भट्ट तुवमिति । भर्तः ! त्वमपि, मम, चोरोऽसि मोदकतस्करो भवसि। इति हास्यानुगुणोऽर्थः। असीत्यत्र काक्का, त्वद्भक्तस्य भे कार्यविघटको न भवेरित्याभ्यन्तरः ।

 अविहेति । आविधेति खेदे । स च मोदकसत्यस्वबुद्धया । आलिखितं खलु आलेख्यार्पितं , न तु सत्यम् । मोदकमल्लकं, मम सन्तापतिमिरेण उग्रातपाभिघातजनितेन चक्षुर्जडिम्ना । सुष्ट न प्रेक्षे सम्यङ् न पश्यामि । मित्तिशोधनावसरसम्पादनर्थेयमुक्तिरकार्यैव ।

 भादु इतेि । भवतु, अहं प्रमार्जिष्यामि तावत् करेणभिमृश्य शोधयिध्यामि' , अर्थादालेख्यभित्तिम् । भित्तिशोधनं च मोदकासस्यस्वानिश्चयार्थे हास्यपक्षे ; स्थानविविक्तत्वनिश्चयार्थं तु पक्षान्तरे , महसेनश्रुत्या वितानिष्यमाणमस्म न्मन्त्रम् आलेख्यवद् देवगर्भग्रहभित्तिलग्नाः स्थित्वा मा क्ष्रौषुरिति ।

 भित्तिं प्रमृज्याह--हीहीति । हीशब्दो हर्षे । स चालेख्यगुणानुसन्धानात् स्थानविविक्तत्वानिश्चयाच्च । हे चित्रकर ! आलेख्याशिल्पिन् ! साधु साधु क्ष्लाघनीयं