पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
तृतीयोऽङ्कः ।

जह जह पमज्जामि, तह तह उजळदरं होइ । भोदु , उदएण पमज्जिस्सं । कर्हिणुहु उदअं । इदं सोहणं सुद्धतडाअं । अहं विअ सिवो वि दाव एदस्सिं मदअमळ्ळए णिरासो होदु ।


यथा यथा प्रमार्जिम, तथा तथोज्ज्वलतरं भवति। भवतु, उदकेन प्रमार्जिष्यामि । कुत्रनुखळूदकम् । इदं शोभनं शुद्धतटाकम् । अहमिव शिवोऽपि ताबद एतस्मिन् मोदकमल्लके निराशो भवतु ।


ते शिल्पकौशलम् । तद् विवृणोति - वर्णानां शुक्लनीलादीनां । युक्तलेखतया पर्याप्तनेवेशतया हेतुना । यथा यथा प्रमार्ज्मि, तथा तथा उज्ज्वलतरं भवति अतिशयेन दीप्तवर्णं भवति, न तु वीतवर्णं भवति । इति बाह्योऽर्थः । हे चित्रकर ! अद्भुतनीतिप्रयोगनिपुण ! यौगन्धरायण ! साधु साधु त्वन्नीतिप्रयोगकौशलं क्ष्लाघनीयम् । तद् विवृणोति---वर्णानां प्रकाराणां त्वदीयकार्यविधानानामित्यर्थः । युक्तलेखतया यथार्हप्रणयनतया । यथा यथा प्रमार्जिम विधानसारासारभावं प्रकर्षेण परीक्षे, तथा तथा उज्ज्वलतरं सारतरं भवति, न किमपि ते विधानं निस्सरमुपलभ्यत इति भावः । इत्याभ्यन्तरः ।

 भोदु इति । भवतु, उदकेन प्रमार्जिष्यामि । मोदकनिर्णयं प्रति हस्तस्पर्शलक्षणेन शोधनेनापरितुष्यत इव विदूषकस्यायम् उदकक्षालनलक्षणशोचनोपन्यासो हास्यानुगुणःपक्षान्तरे तु उदकपेक्षाव्याजेन तटाकस्य योधनार्थः, तस्मिन् निलीय कश्चिद मा मन्त्रं क्ष्रौषीदिति ।

 कहिमित्यादि । स्पष्टम् ।

 जळमपेक्षमाणो निकटतटाकमुपसृत्य परिवीक्ष्याह- इदमित्यादि । इदं स्थलं शुद्धतटाकं शुद्धं निर्मलजलम् अथ च जनसान्निध्यदोषरहितं तटाकं यस्मिस्तत् तथाभूतम् । अत एव शोभनं मङ्गलकरं मन्त्रयोग्यमित्यर्थः ।

 अहं विअ इति । शिवोऽपि देवोऽपि अहमिव, एतस्मिन् आलेख्यरूपे मादेकमल्लके , निराशः आशारहितः । भवतु । सत्यमोदके ह्युभयोरपि सकामता स्यादित्यभिप्रायः । इति बाह्योऽर्थः। अहमिव, शिवोऽपि यौगन्धरायणोऽपि अथवा देवोऽपि । एतस्मिन् मोदकमल्लके वासवदत्तराहितवत्सराजहरणे । निराशो भवतु त्यक्तमभिळाषो भवतुः। अर्थाद् वासवदत्तासाहितवत्सराजहरणे अभिलाषवान् भवतु। वासवद्धत्तया सह वस्सराजस्यः कौशाम्बीप्रयाणं रोचयमानस्य मम मतं यौ-