पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१
तृतीयोऽङ्कः ।

पडिहस्थीकिदं भवे। निरूप्य) जदि बि एसो बलंआरी बहुकेहि रूहि अवि. णों करेदि । भोदु पेक्खिस्सं दाव अहं । भो ! एदं खु मम मोदअमळ्ळग्री


शुद्धवतमेवोद्रािमि। अथवा लोहितकात्यायन्याः सम्बन्ध मम सम्बन्धीति कृत्वा शिवेन प्रतिहस्तीकृतं भवेत् । यद्यप्येष ब्रह्मचारी बहुकै रूपैरविनयं करोति । भवतु प्रेक्षिष्ये तावदहम् । भोः ! एष खलु मम मोदकमलंक


त्व।त् तस्याः स्वभूतं वस्तु वत्सराजरूपम् । मम संबन्धीति कृत्वा मद्वयमनाया सेन कौशाम्बीं नेतुं शक्यमिति तन्मनेrधृतितत्वज्ञानान्मत्वा । मोदकं प्रियं , कर्त- व्यतया सङ्केतितपूर्वं कौशम्बीrgयाणविषयं मन्त्रणकर्मेत्यर्थः । प्रतिहस्तीकृतं भवेत् अप्रधानीकृतं भवेत् , फलस्यान्थथासुलभत्वभ्रमाद् अनवश्यकर्तव्यमिति विचारितं -भवेत् । इह काकु न भवेदित्यर्थः । कल्याणबुव तस्मिन् समयलङ्घनदौर्जन्य स्यासंभव्यवदित्यभिप्रायः । इयाभ्यन्तरोऽर्थः । अत्र हस्तं प्रतिगतं प्रतिह स्तम् , अतत् तत् सपद्यमानं कृतं प्रतिहस्तीकृतामित्याद्येऽर्थे व्युत्पत्तिः ; द्वितीये तु प्रतिहस्तः प्रतिनिधिः अप्रधानम् । शेषं समानम् ।

 जदिवीति । यद्यपीति पश्चान्तरशङ्कायाम , अथवेत्यर्थः। बहुकैः रूपैः उप लक्षितः कामरूपी । एषः पुरोवर्ती ब्रह्मचारी वर्ण। अर्थात् भ्याशिवालयप्रतिष्ठित तो गणाधिपः । अविनयं दुवृत्तं मेदकापहाररूपं । करोति कृतवान् किं प्रियमोद कत्वात् । इह काकुः खोऽयं हास्यानुगुणो बाह्योऽर्थः । बहुकैः रूपैः अनेकैः प्रकारैः । प्रतिजनशुभाशुभादेशन-प्रतिजनचिकित्सन प्रतिजनवाचलवादि:भरुपल छितः । एषः ब्रह्म तपश्वरितं शीलमस्येति ब्रह्मचरी श्रमणकःअर्थाद् रुमण्वान् । अविनयं करोति , नअर्थकाकु मन्त्रभेदलक्षणमपचारं न कृतवानित्यर्थः। सर्वत्र गत्वरोऽप्ययं तीव्रव्रतनिष्ठया मन्त्रगुप्तित्रतान् प्राणात्ययेऽपि न प्रमाद्यदित्यमि. प्रायः । तदित्थं चैौगन्धरायणानागमनहेतूनां बाधं समर्थितवता विदूषकेण स्वहृदये तदागमनप्रत्याश लब्धप्रतिष्ठा सूचितेति बोद्धव्यम् ।

 भोङ इति । भवतु , अहं प्रेक्षिष्ये तवत् । शिवगृहं साकल्येन परिशोधयि च्यामि , क वर्तते मे मोदकमत्रक इति इति बाह्योऽर्थः। शिवस्य दर्शनसेवां करिष्यामीत्याभ्यन्तरः करिष्यमाणवरप्रानानुगुण: । यौगन्धरायणो यावदायति तावत् तं प्रतीक्षध्ये इति वा ।

 भो एदमिति । एष खलु मोद कमकः शिवस्य पादमूले तिष्ठतीति स्पष्टो बाह्योऽर्थः । मम, मोदकमलकः प्रशस्तं प्रियं वासवदत्तासहितवत्सराजहर-