पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 काञ्चुकीयः--यदाज्ञापयति महासेनः ।

 राजा--अथवा एहि तावत् ।

 काञ्चुकीयः-अयमस्मि ।

 राजा–अस्य सर्वदर्शनमविमुक्तसत्कारमवगन्तव्यम् । आकारसूचिता अस्य प्रीतयो विज्ञेयाः। अतिक्रान्तविग्रहाक्ष्रिताः कथा न कथयितव्याः । श्रुतादिप्रयोगेष्वाशिषोऽभिधेयाः। काछर्सवादिना स्तवेनार्च्यः।

 काञ्चुकीयः -यदाज्ञापयति महासेनः। ( निष्क्रम्य प्रविश्य ) जयतु महासेनः पथ्येव कृतव्रणप्रतिकर्मा वत्सराजः । अकालस्तावदिदानीं द्वितीयस्य प्रतिकर्मण इति । मध्याह्नमारोहति दिवाकरः।

 राजा--अथ कस्मिन् प्रदेशे वीरमानी ।

 काञ्चुकीयः-मयूरयष्टिमुखे ।

 राजा–हा धिग् , अनाश्रयणीयः खल्वयं देशः। , आतपप्रातिकूल्यार्थं मणिभूमिकायां प्रवेशयेत्याज्ञापय ।


 यदित्यादयस्त्रयः संवादः ।

 वत्सराजविषयवात्संख्यानुगुणम्सदिशति – अस्येत्यादि । अस्य, सर्वदर्शनम् अन्तर्गताभिलाषसूचनी सर्वविधा दृष्टिः । अविमुक्तसत्कारं सबहुमानम् । अवगन्तव्यम् अवगम्य सफलयितव्यमिल्यर्थः । आकारसूचिताः इङ्गिताभिव्यक्ताः । प्रीतयः प्रीतिविषयाः । क्षुतादिप्रयोगेषु क्षुतादीनां क्षव-कास जृम्भितानां प्रयोगेषु करणेषु । आशिषः ’चिरं जीवे’ त्यादयो मङ्गलवाचः । कालसंवादिना स्तवेन अच्यैः प्रबोधस्नानभोजनादिकाळानुरूपेण स्तुतिपाठेन पूजनीयः ।

 यदित्यादि । अकालः समयो न प्राप्त इत्यर्थः । मध्याह्नम् अह्नो मध्यम्। अहोऽहं एतेभ्यःइत्यह्रदेशः । इह सूर्यस्य दिनमध्यप्राप्तिकथनं तस्कालकरणीयस्य प्राप्तवसरत्वस्मरणार्थम् ॥

 अथस्यदि । वीरमानी वीरमात्मानं मन्यते धीरमानी वत्सराजः । आत्ममाने खश्च’ इति खश् ॥

 मयूरयष्टिमुख इति । मयूरस्थित्यर्थं यष्टयो यत्र स्थापिताः , स सौघविशुषो मयूरयष्टिः, तस्य मुखे अग्रिमकक्ष्यायाम् ॥

 हा धिगित्यादि । अनाश्रयणीयः आश्रयितुमधिवस्तुसनईः । आतपसान्नि-