काञ्चुकीयः-यदाज्ञापयति महासेनः । (निष्क्रम्य प्रविश्य) यदाज्ञप्तं महासेनेन , तत् सर्वमनुष्ठितम् । अमाट्यस्तु भरतरोहको महासेनं द्रष्टुमिच्छति ।
राजा–व्यक्तं न रोचते तस्मै बत्सराजसत्क्रिया । अस्यैष नीतेः परिश्रमः । अहमेवैनमनुनयामि ।
देवी–(क) किं सम्बन्धो णिच्चिदो।
राजा- न तावान्निश्चयो गम्यते ।
देवी–(ख) अलं दाणि तुबरिअ । बाळा मे दारिआ ।
राजा–यदभिरुचितं भवत्यै । प्रविशस्त्रभ्यन्तरम् ।
(क) किं सम्बन्धो निश्चितः ।
(ख) अळमिदानीं त्वरित्वा। बाला मे दारिका।
कर्षादित्यर्थसिद्धम् । मणिभूमिकायां मणिप्रचुरायां कक्ष्यायाम् ॥
यदित्यादि ॥
व्यक्तामित्यादि । व्यक्कं नूनम् । एषः अस्य नीतेः परिश्रमः , इदं वत्सराजग्रहणं भरतरोहकनीतिप्रयोगपरिश्रमफलम् । अतो मद्विरुद्धाभिप्रायोऽपि स नावज्ञेय इत्यभिप्रायः । असुनयामि परिसान्त्वयामि । अर्थाद् वत्सराजसत्कारानुकूल्यार्यम् ॥
वत्सराजेन सह कन्यासम्बन्धेऽमिलाषमतिमहता तत्सत्कारयत्नेन भर्तुर्हृदयस्थं मन्वाना वक्ष्यमाणप्रकारस्य तढ्द्दढीभावाद्यर्थकाळप्रतक्षिपिक्षेपस्य, पूर्वनिर्दिष्टमागधकाशिराजादिकन्यार्थविषयकस्वरुचिप्रकाशनस्य नावसरसम्पादनाय पृच्छति-- किमित्यादि । संबन्धः, प्रस्तुतमागधाद्यन्यतमेन सह ॥
न तावादित्यादि ।
अळमिति । इदानीं , त्वरिस्वा अलं, वरनिर्णयं प्रति स्वरा मास्तु, कियांश्चित् कालः प्रतीक्ष्यतामित्यर्थः । कालप्रतीक्षणे हि मागधादिभ्यो गुणवत्तरं कन्यार्थिनमवश्यं लभेमहीत्याशयः । बाला असंप्राप्तयौवना ॥
यदिति । भवत्यै यद् अभिरुचिते, तत् करिष्यामीयार्यम् । ‘यदाभिरुचितं भवत्यै तदा भवतु' इति पाठे वरनिर्णयो भवतेः कर्ता । अभ्यन्तरम् अन्तःपुरान्तरालम् । प्रविशतु अर्थाद् भवती ॥